Feeds RSS
लाभले अम्हास भाग्य बोलतो मराठी । जाहलो खरेच धन्य ऐकतो मराठी ॥ धर्म, पंथ, जात एक जाणतो मराठी । एवढ्या जगात माय मानतो मराठी ॥

शुक्रवार, २९ मे, २००९

प्रातःस्मरण

Share

वक्रतुण्ड महाकाय सुर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥१॥

गणनाथ-सरस्वती-रवि-शुक्र-बृहस्पतीन ।
पत्र्चैतान संस्मरेत्रित्य वेदवाणीप्रवूत्तये ॥२॥

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविंदः प्रभाते करदर्शनम् ॥३॥

गुरुर्बम्हा गुरुर्विष्णुगुर्रुदैवो महेश्वर: ।
गुरु : साक्षात परब्रम्ह तस्मै श्रीगुरवे नमः ॥४॥

विनायक गुरुं भानु ब्रम्हविष्णुमहेश्वरान ।
सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिध्दये ॥५॥

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्टिर: ।
पुण्यश्लोको विदेहश्व पुण्यश्लोको जनार्दन: ॥६॥

अश्वत्थामा बलिव्यासो हनुमानन्च विभीषण : ।
कृप परशुरामश्च : सप्तैत चिरंजीविन : ॥७॥


राघवं रामचंद्रं च रावणारि रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनंदनम ॥८॥

सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषा ह्यदिस्थो भगवान् मंगलायतनं हरि : ॥९॥

गंगा सिंधु सरस्वती च यमुना गोदवरी नर्मदा
कावेरी शरयू महेन्द्रतनया चर्मण्वती वेदिका ।
क्षिप्रा वेन्नवती महासुरनदी ख्याता जया गण्डकी
पुर्णा: पुण्यजलै: समुद्रसहिता: कुर्वन्तु मे मंगलम ॥१०॥

अहल्या द्रौपदी सीता मन्दोदरी तथा ।
पंचक ना स्मरेन्नित्यं महापातकनाशनम् ॥११॥

अयोध्या मथुरा माया काशी- कात्र्ची अवन्तिका ।
पुरी द्वारावती चैव सत्पैता मोक्षदायिका :॥१२॥

नमो ब्रम्हाण्यदेवाय गोब्राम्हाणहिताय च ।
जगध्दिताय गोविन्दाय नमो नम: ॥१३॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मड्ग़लं कुरु ॥१४॥

आकाशात्पतितं तोयं यथा गच्छति सागरं ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥ ॥१५॥

मुकं करोति वाचाल पड्ग़ुं लड्घ्यते गिरिम् ।
यत्कृपा तमह वन्दे परमानन्दमाधवम् ॥१६॥

शान्ताकारं भुजगशयनं पद्यनाभं सुरेशम् ।
विश्वाधारं गगनसह्यशं मेद्यनाभं शुभाड्ग़म ॥
लक्ष्मीकान्तं कमलनयनं योगिभिध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१७॥

कल्याणानां निधानं कलिमलमथनं पावन पावनानाम् ।
पाथेयं यन्मुमुक्षो: सपदि परपदप्रात्पये प्रस्थितस्य ॥
विश्रामस्थानमेकं कविवरवचसा जीवन सज्जनानाम् ।
बीजं धर्मद्रूमस्य प्रभवतु भवता भूतये रामराम ॥१८॥

अन्ननीगर्भसम्मूतो वायुपुत्रओ महाबल: ।
कुमारो ब्रम्हाचारी च तस्मै हनुमते नम: ॥१९॥

गंगे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिंधु कावेरि जलेsस्मिन् सन्निधिं कुरु ॥२०॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमाण्डितकरा या श्वेतपद्यासना ।
या ब्रम्हाच्युतशंकरप्रभृतिभिर्देवै: सदा वान्दिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥२१॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्केशनाशाय गोविंदाय नमो नमः ॥२२॥


महायोगपीठे तटे भीमरथ्याम्
वरं पुण्डरीय दातुं मुनीन्द्रै: ।
समागत्य तिष्ठन्तमानन्दकन्दम्
परब्रम्हलिड़् भजे पाण्डुरड़म् ॥२३॥

जराजन्मविनाशाय देहशुध्दिकरय च ।
दिगम्बर दयामूर्ते दत्तात्रेय नमोsस्तुते ॥२४॥

ॐकारबिन्दुसंयुक्तं नित्य ध्यायन्ति योगिन: ।
कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥२५॥

सर्वेsत्र सुखिनः सन्तु सर्वे सन्तु निरामया : ।
सर्वे भद्राणि पश्यन्तु मा काश्विदुःखमाप्नुयात् ॥२६॥

काले वर्षतु पर्जन्य: पृथिवी सस्यशालिनी ।
देशोSयं क्षोभराहितो ब्राम्हणाः सन्तु निर्भयाः ॥२७॥

माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धावाः शिवभक्तश्व स्वदेशो भुवनत्रयम ॥२८॥

रत्नाकराधौतपदां हिमालयाकिरीटिनीम ।
ब्रम्हाराजाशर्षिरत्नाढ्यां वन्दे भारतमातरम् ।
ब्रम्हाराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ॥२९॥

ब्रम्हा मुरारिस्त्रिपुरान्तकारी भानुः शशी भुमिसुतो बुधश्व।
गुरुश्व शुक्रः शनिराहुकेतवः कृर्वन्तु सर्वे मम सुप्रभातम ॥३०॥

ॐ असतो मा सदगमय ।
तमसो मा ज्योतिर्गमय ॥
मृत्योर्माSमृतं गमय ॥
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॥३१॥

आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥३२॥

ब्रम्हानन्दं परमसुखदं केवल ज्ञानमूर्ति ।
ब्रम्हानन्दं गगनसहशं तत्वमस्यादिलक्ष्यम ।
एकं नित्य विमलमचल सर्वधीसाक्षिभूतम ।
भावातीत त्रिगुणरहितं सदुरुं तं नमामि ॥३३॥

तुलसि ! श्रीसखि शिवे पापहरिणि पुण्यदे ।
नमस्ते नारदनुते नमो नारायणप्रिये ॥३४॥


मुलतो ब्रम्हारुपे मध्यतो विष्णुरुपिणे ।
अग्रतः शिवरुपाय अश्वत्थाय नमो नमः ॥३५॥

तदेव लग्गं सुदिनं तदेव ताराबलं चंद्रबल तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेSड़घियुगं स्मराति ॥३६॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हदयस्थो जनार्दनः ॥३७॥

वसुदेवसुतं देव कंसचाणूरमर्दम ।
देवकीपरमानन्दं कृष्णं वन्दे जगदगुरुम ॥३८॥

समृद्रवसने देवि ! पर्वतस्तनमण्डले ।
विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥३९॥

आयुर्बलं यशो वर्चः प्रजा पशुन वशून वसूनि च ।
ब्रम्हा प्रज्ञां च मेघा च त्वं नो देहि वनस्पते ! ॥४०॥

नारायणं निराकारं नरवीरं नरोत्तमम्।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम्॥ ॥४१॥

अभीप्सितार्थसिदध्यर्थ पुजितो यः सुरासुरैः ।
सर्वविघ्ननहरस्तस्मै गणधिपतये नमः ॥४२॥

0 टिप्पणी(ण्या):

Related Posts Plugin for WordPress, Blogger...

आता लिहा मराठीत

सुचना
ह्या कविता विविध माध्यमातून घेतल्या आहेत .
जर या मधील कोणाची कविता असेल तर आपले पूर्ण नाव टिप्पणी मध्ये सोडावे .
back to top